हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yathiraja Vimsathi – यतिराजविम्शति
यः स्तुतिं यतिपतिप्रसादनीं
व्याजहार यतिराजविम्शतिम् ।
तं प्रपन्न जनचातकाम्बुदं
न्ॐइ स्ॐयवरयोगिपुङ्गवम् ॥
श्रीमाधवाङ्घ्रि जलजद्वयनित्यसेवा
प्रेमाविलाशयपराङ्कुशपादभक्तम् ।
कामादिदोषहरमात्म पदाश्रितानां
रामानुजं यतिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥
श्रीरङ्गराजचरणाम्बुजराजहंसं
श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् ।
श्रीभट्टनाथपरकालमुखाब्जमित्रं
श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥
वाचा यतीन्द्र मनसा वपुषा च युष्मत्
पादारविन्दयुगलं भजतां गुरूणाम् ।
कूराधिनाथकुरु केशमुखाद्यपुंसां
पादानुचिन्तनपरः सततं भवेयम् ॥ ३ ॥
नित्यं यतीन्द्र तव दिव्यवपुः स्मृतौ मे
सक्तं मनो भवतु वाग्गुणकीर्तनेऽसौ ।
कृत्यं च दास्यकरणेतु करद्वयस्य
वृत्त्यन्तरेऽस्तु विमुखं करणत्रयं च ॥ ४ ॥
अष्टाक्षराख्यमनुराजपदत्रयार्थ
निष्ठां ममात्र वितराद्य यतीन्द्रनाथ ।
शिष्टाग्रगण्य़जनसेव्यभवत्पदाब्जे
हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५ ॥
अल्पाऽपि मे न भवदीयपदाब्जभक्तिः
शब्दादिभोगरुचिरन्वहमेधते हा ।
मत्पापमेव हि निदानममुष्य नान्यत्
तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६ ॥
वृत्त्या पशुर्नरवपुस्त्वहमीदृशोऽपि
श्रुत्यादिसिद्धनिखिलात्म गुणाश्रयोऽयम् ।
इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुं
अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७ ॥
दुःखावहोऽहमनिशं तव दुष्टचेष्टः
शब्दादिभोगनिरतः शरणागताख्यः ।
त्वत्पादभक्त इव शिष्टजनौघमध्ये
मिथ्या चरामि यतिराज ततोऽस्मिमूर्खः ॥ ८ ॥
नित्यं त्वहं परिभवामि गुरुं च मन्त्रं
तद्देवतामपि न किञ्चिदहो बिभेमि ।
इत्थं शठोऽप्यशठवद्भवदीयसङ्घे
हृष्टश्चरामि यतिराज ततोऽस्मिमूर्खः ॥ ९ ॥
हा हन्त हन्त मनसा क्रियया च वाचा
योऽहं चरामि सततं त्रिविधापचारान् ।
सोऽहं तवाप्रियकरः प्रियकृद्वदेव
कालं नयामि यतिराज ततोऽस्मिमूर्खः ॥ १० ॥
पापे कृते यदि भवन्तिभयानुताप
लज्जाः पुनः करणमस्य कथं घटेत ।
मोहेन मे न भवतीह भयादिलेशः
तस्मात्पुनः पुनरघं यतिराज कुर्वे ॥ ११ ॥
अन्तर्बहिः सकलवस्तुषु सन्तमीशं
अन्धः पुरः स्थितमिवाहमवीक्षमाणः ।
कन्दर्पवश्यहृदयः सततं भवामि
हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥
तापत्रयीजनितदुःखनिपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥
वाचामगोचरमहागुणदेशिकाग्र्य
कूराधिनाथकथिताखिलनैच्यपात्रम् ।
एषोऽहमेव न पुनर्जगतीदृशस्तत्
रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४ ॥
शुद्धात्मयामुनगुरूत्तमकूरनाथ
भट्टाख्यदेशिकवरोक्तसमस्तनैच्यम् ।
अद्यास्त्यसङ्कुचितमेव मयीह लोके
तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५ ॥
शब्दादिभोगविषया रुचिरस्मदीया
नष्टा भवत्विह भवद्दयया यतीन्द्र
त्वद्दासदासगणनाचरमावधौ यः
तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः
प्रत्यक्षतामुपगतस्त्विह रङ्गराजः ।
वश्यः सदा भवति ते यतिराज तस्मात्
शक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥
कालत्रयेऽपि करणत्रयनिर्मिताति
पापक्रियस्य शरणं भगवत्क्षमैव ।
सा च त्वयैव कमलारमणेऽर्थिता यत्
क्षेमः स एवहि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥
श्रीमन् यतीन्द्र तव दिव्यपदाब्जसेवां
श्रीशैलनाथकरुणापरिणाम दत्ताम् ।
ता मन्वहं मम विवर्धय नाथ तस्याः
कामं विरुद्धमखिलं च निवर्तय त्वम् ॥ १९ ॥
विज्ञापनं यदिदमद्य तु मामकीनं
अङ्गीकुरुष्व यतिराज दयाम्बुराशे
अज्ञोयमात्मगुणलेश विवर्जितश्च
तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥
इति यतिकुलधुर्य मेधमानैः
श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।
वरवरमुनिमेव चिन्तयन्ती
मति रियमेति निरत्ययं प्रसादम् ॥ २१ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.